शब्दकल्पद्रुमः
मलयानिलः || पुं, (मलयस्यानिलः ।) वसन्त- कालीनवायुः । तत्पर्य्यायः । वासन्तः २ । इति त्रिकाण्डशेषः ॥ (यथा, साहित्यदर्पणे । ३ । १२६ । “स एव सुरभिः कालः स एव मलयानिलः । सैवेयमबला किन्तु मनोऽन्यदिव दृश्यते ॥”)