मलापकर्षण
मलारि
मलापहा
शब्दकल्पद्रुमः
मलापहा || स्त्री (मलमपहन्तीति । अप + हन् + डः । स्त्रियां टाप् ।)
नदीविशेषः । यथा, —
“मलापहा भीमरथी च घट्टगा यथा च कृष्णा जलसाम्यगा गुणैः । मलापहाघट्टगयोस्तथापि पथ्यं लघु स्वादुतरं सुकान्तिदम् ॥” इति राजनिर्घण्टः ॥