संस्कृत-शब्दकोशः

मलिन मलिनाम्बु

मलिनमुख

वाचस्पत्यम्

मलिनमुख ||‍ पु० मलिनं मुखं यस्य १ वह्नौ तस्यादौ धूमाय मानत्वेन कृष्णत्वात् २ चित्रकवृक्षे च । ३ वानरे पुंस्त्री० मेदि० स्त्रियां ङीष् ४ क्रूरे ५ खले च त्रि० मेदि० ६ प्रेते हेम० ।


शब्दकल्पद्रुमः

मलिनमुखः || त्रि (मलिनं दूषितं मुखं यस्य ।)
क्रूरः । खलः । इति मेदिनी । खे, १८ । हेम- चन्द्रश्च ॥ म्लानवदनश्च ॥


शब्दकल्पद्रुमः

मलिनमुखः || पुं, (मलिनं मुखमग्रभागो यस्य ।)
अग्निः । गोलाङ्गुलः । इति मेदिनी । खे, १८ ॥ प्रेतः । इति हेमचन्द्रः ॥



Correction: