संस्कृत-शब्दकोशः

मलिनी मलिष्ठा

मलिम्लुच

वाचस्पत्यम्

मलिम्लुच ||‍ पु० मली वैदिककर्मानर्हत्वेन दुष्टः सन् म्लोचति गच्छति म्लुच—क । १ मलमासे २ वायौ ३ अग्नौ ४ चौरे च मेदि० । ५ चित्रकवृक्षे ।


शब्दकल्पद्रुमः

मलिम्लुचः || पुं, (मली सन् म्लोचतीति । म्लुच् इर् गत्याम् + कः ।)
मलमासः । यथा, —
“तमतिक्रम्य तु रविर्यदा गच्छेत् कथञ्चन । आद्यो मलिम्लुचो ज्ञेयो द्बितीयः प्रकृतः स्मृतः ॥ यदा तं दर्शान्तमासमतिक्रम्य तत्पूर्ब्बमासा- न्त्यक्षणवृत्तिराशिस्थः सन् सूर्य्योऽतिवाह्य गच्छेत् मासान्तरे राश्यन्तरसंयोगं गच्छेत् तदा आद्योऽतिक्रान्तमासो मलिम्लुचो ज्ञेयः । मली सन् म्लोचति गच्छतीति मलिम्लुचः । द्वितीयस्तु प्रकृतः शुद्धः कर्म्मार्हत्वात् ।” इति मलमास- तत्त्वम् ॥ अग्निः । चौरः । इति मेदिनी । चे, २१ ॥ (यथा, माघे । १६ । ५२ । “प्रहितः प्रधनाय माधवा- नहमाकारयितुं महीभृता । न परेषु महौजसश्छला- दपकुर्व्वन्ति मलिम्लुचा इव ॥”)
वायुः । इति शब्दमाला ॥ (पञ्चयज्ञपरिभ्रष्टः । इति हेमचन्द्रः । ३ । ५२२ ॥)



Correction: