वाचस्पत्यम्
मलीमस || त्रि० मल—ईमसच् । १ मलिने अमरः । २ लौहे ३ पुष्पकासीसे च मेदि० ।
शब्दकल्पद्रुमः
मलीमसं || क्ली (मलमस्यास्तीति । मल + “ज्योत्स्नातमिस्रेति ।” ५ । २ । ११४ । इति ईमसच् प्रत्ययेन निपातितः ।)
लौहम् । पुष्पकासीसम् । इति मेदिनी । से, ५९ ॥
शब्दकल्पद्रुमः
मलीमसः || त्रि (मलमस्यास्तीति । मल + ईम- सच् । निपात्यते ।)
मलिनः । इत्यमरः । ३ । १ । ५५ ॥ (यथा, माघे । १ । ३८ । “उपप्लुतं पातुमदो मदोद्धतै- स्त्वमेव विश्वम्भर ! विश्वमीशिषे । ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं नभः ॥” कृष्णवर्णः । यथा, श्रीकण्ठचरिते । ६ । ३८ । “मलीमसश्रीर्मधुपानसक्तो भेजे लताः पुष्पवतीः स्फुटं यः । स एव चैत्रेण वत द्बिरेफः पुष्पेषुराज्ये विहितः पुरोधाः ॥”)