वाचस्पत्यम्
मल्लक || पु० मल्ल्यते ध्रियतेऽत्र मल्ल—वुन् । १ दीपाधारे पात्रे २ नारिकेलफलजाते पात्रे च (माला) अमरः । ५ प्रदीपे मथुरेशः ६ स्वनामपुष्पे स्त्री अमरः टाप् अत इत्त्वम् ।
शब्दकल्पद्रुमः
मल्लकः || पुं, (मल्ल इव । मल्ल + कन् । दृढत्वादस्य तथात्वम् । यद्वा, मल्ल धारणे + ण्वुल् ।)
दन्तः । इति हेमचन्द्रः । ३ । २८४ ॥ (ब्राह्मण- विशेषः । यथा, राजतरङ्गिण्याम् । ८ । २३२० । “विलोक्य वैकल्यहतौ बद्धौ तौ स्वामिनौ तथा । कृष्टासिधेनुरुत्तस्थौ द्विजन्मा मल्लकाभिधः ॥”)
शब्दकल्पद्रुमः
मल्लकः || पुं, स्त्री, (मल्लते धारयति प्रदीपमिति । मल्ल् + ण्वुल् ।)
दीपाधारः । नारिकेलफला- वयवजपात्रविशेषः । माला इति भाषा । स्त्रियां मल्लिका । इत्यमरभरतौ ॥ प्रदीपः । इति मथुरेशः ॥