संस्कृत-शब्दकोशः

मल्लभू मल्लयात्रा

मल्लभूमि

शब्दकल्पद्रुमः

मल्लभूमिः || स्त्री (मल्लानां भूमिः स्थानम् ।)
मल्लक्रीडास्थानम् । तत्पर्य्यायः । अक्षवाटः २ रङ्गभूमिः ३ रणस्थली ४ । इति शब्दरत्नावली ॥ मल्लभूः ५ अक्षपाटः ६ । इति जटाधरः ॥ देशविशेषश्च ॥ (यथा, —
“अयःपात्रे पयःपानं शालपत्रे च भोजनम् । शयनं तालपत्रे च मल्लभूमेरियं गतिः ॥” इत्युद्भटः ॥)



Correction: