संस्कृत-शब्दकोशः

मल्लयात्रा मल्ला

मल्लयुद्ध

वाचस्पत्यम्

मल्लयुद्ध ||‍ ६ त० । बाहुयुद्धे तत्प्रकारः भा० वि० १२ अ० ।


शब्दकल्पद्रुमः

मल्लयुद्धं || क्ली (मल्लानां युद्धम् ।)
मल्लानां संग्रामः । तत्पर्य्यायः । नियुद्धम् २ बाहुयुद्धम् ३ । इति शब्दरत्नावली ॥ तत्प्रकारा यथा, —
“अथ सूदेन तं मल्लं योधयामास मत्स्यराट् । चोद्यमानस्ततो भीमो दुःखेनैवाकरोम्मतिम् ॥ नहि शक्नोति विवृतं प्रत्याख्यातुं नराधिपम् । ततः स पुरुषव्याघ्रः शार्दूलशिथिलश्चरन् ॥ प्रविवेश महारङ्गं विराटमभिपूजयन् । बबन्ध कक्षां कौन्तेयस्ततः संहर्षयन् जनान् । ततस्तं वृत्रसङ्काशं भीमो मल्लं समाह्वयत् ॥ जीमूतं नाम तं मल्लं तत्र प्रख्यातविक्रमम् । तावुभौ सुमहोत्साहावुभौ तीव्रपराक्रमौ ॥ मत्ताविव महाकायौ वारणौ षष्टिहायनौ । ततस्तौ नरशार्दूलौ बाहुयुद्धे समीयतुः ॥ वीरौ परमसं हृष्टावन्योन्यजयकाङ्क्षिणौ । आसीत् सुभीमः सम्पातो वज्रपर्व्वतयोरिव ॥ १० ॥ उभौ परमसंहृष्टौ बलेनातिबलावुभौ । अन्योन्यमन्तरप्रेप्सू परस्परजयैषिणौ ॥ उभौ परमसंहृष्टौ मत्ताविव महागजौ । कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सकङ्कटैः ॥ ११ ॥ सन्निपातावधूतैश्च प्रमाथोन्मथनैस्तथा । क्षेपणैर्मुष्टिभिश्चैव वराहोद्धूतनिस्वनैः ॥ तलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च । शलाकानखपातैश्च पादोद्धूतैश्च दारुणैः ॥ जानुभिश्चाश्मनिर्घोषैः शिरोभिश्चावघट्टितैः । तद्युद्धमभवद्घोरमशस्त्रं बाहुतेजसा ॥ बलप्राणेन शूराणां समाजोत्सवसन्निधौ । अरज्यत जनः सर्व्वः सोत्क्रुष्टनिनदोत्थितः । बलिनो संयुगे राजन् ! वृत्रवासवयोरिव । प्रकर्षणाकर्षणयोरभ्याकर्षविकर्षणैः ॥ आकर्षेतामथान्योन्यं जानुभिश्चाभिजघ्नतुः ॥ १२ ॥ ततः शब्देन महता भर्त्सयन्तौ परस्परम् । व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ ॥ बाहुभिः समसज्जेतामायसैः परिघैरिव । चकर्ष दोर्भ्यामुत्पाट्य भीमो मल्लममित्रहा ॥ विनदन्तमभिक्रोशन् शार्दूल इव वारणम् । तमुद्यम्य महाबाहुर्भ्रामयामास वीर्य्यवान् ॥ ततो मल्लाश्च मत्स्याश्च विस्मयं चक्रिरे परम् । भ्रामयित्वा शतगुणं गतसत्त्वमचेतनम् । प्रत्यपिंषन्महाबाहुर्म्मल्लं भुवि वृकोदरः ॥ १३ ॥ तस्मिन् विनिहते मल्ले जीमूते लोकविश्रुते । विराटः परमं हर्षमगच्छद्बान्धवैः सह ॥ स हर्षात् प्रददौ वित्तं बहु राजा महामनाः ॥” इति विराटपर्व्वणि १२ अध्यायः ॥ एषां टीका यथा । “दुखेन स्वप्रकटनराजाज्ञा- लङ्घनद्वन्द्वजेन । विवृतं लोकसमक्षम् । शार्दूल- शिथिलः सिंह इव व्याघ्र इव वा शिथिलः सावज्ञः । स्यात् सिंहेऽपि च शार्दूल इति दर्शनात् । कक्षां कच्छम् । सम्पातः संघर्षः ॥ १० ॥ सकङ्कटैः कङ्कटः करघर्षणजः किणः कडा इति प्रसिद्धः । कृतप्रतिकृतैः परप्रयुक्तिप्रति- कृतैः । चित्रैर्विचित्रैर्ब्बन्धैरिति शेषः ॥ ११ ॥ सन्निपातेत्यादि । एते मल्लानां शिक्षाविशेषाः । सन्निपातैः परस्परसंघातैरवधूतैर्बद्धमुष्टिभुजा- घातैः प्रमाथैः पातयित्वा पेषणैः । उन्मथनैः अन्तरीक्षे भुजाभ्यां मथनैः । क्षेपणैः स्थानात् प्रच्यावनैः । बद्धाङ्गुलिकरो मुष्टिः । ‘अवाङ्मुखं स्कन्धगतं भ्रामयित्वा तथैव यः । क्षिप्तस्य शब्दः स भवेद्वराहोद्धूतनिस्वनः ॥ तर्जन्यङ्गुष्ठमध्येन प्रसारितकरो हि यः । संप्रहारस्तलाख्यस्तु संग्रहो वज्रमिष्यते ॥’ अर्द्धचन्द्रतुल्यमल्लमुष्टिर्वज्रमित्यर्थः । ‘प्रसृताङ्गुलिहस्तेन प्रसृष्टिः प्रहृतिः स्मृता । द्विगुणीकृतबाहुर्यस्तदीयार्थं यथाबलम् ॥ प्रहारः सशलाका स्यात् पादोद्धूतः पदा- हतम् ॥’ जानुभिश्चाश्मनिर्घोषैःपाषाणघोषसदृशध्वनिभिः करणैर्यान्यवघट्टनानि तैः । बलप्राणेन बलो- त्कर्षेण । सोत्क्रुष्टनिनदोत्थितः उत्क्रोशन- निनदोत्थानसहितः । प्रकर्षणं बाहुसंमुखा- नयनं प्रकृष्टाकर्षणं तदेवाकर्षणमीषत्सम्मुखा- नयनम् । अभ्याकर्षः समन्ततः कर्षणम् । विकर्षणं पश्चात् नयनं तदेव विपरीतकर्षण- मुच्यते उपसर्गभेदादर्थभेदोऽपीति ॥ १२ ॥ शत- गुणं शतवारम् ॥ १३ ॥” इत्यर्ज्जुनमिश्रकृत- भारतार्थदीपिका ॥



Correction: