शब्दकल्पद्रुमः
मल्ला || स्त्री (मल्लते धारयति विलासादिकमिति । मल्ल धारणे + अच् । स्त्रियां टाप् ।)
नारी । पत्रवल्ली । मल्लिका । इति शब्दरत्नावली ॥ (लोठनराजपत्नी । यथा, राजतरङ्गिण्याम् । ८ । १९१७ । “तमेव पुत्त्रा शोचन्ती शोकशङ्कुहताशया । ततः प्रपेदे प्रलयं मल्ला लोठनवल्लभा ॥”)