शब्दकल्पद्रुमः
मल्लारी || स्त्री (मल्लार + ङीप् ।)
वसन्तरागस्य रागिणी । यथा, —
“आन्दोलिता च देशाख्या लोला प्रथम- मञ्जरी । मल्लारी चेति रागिण्यो वसन्तस्य सदानुगाः ॥” इति सङ्गीतदामोदरः ॥ मेघरागस्य रागिणी । इति हलायुधः ॥ (अस्या उदाहरणादिकं यथा संगीतदर्पणे । “मल्लारी सपहीना स्यात् ग्रहांशन्यासधैवता । औडवा पौवरीयुक्ता वर्षासु सुखदा सदा ॥” ध नि रि ग म ध । अस्या ध्यानं यथा, —
“गौरी कृशा कोकिलकण्ठनादा गीतच्छलेनात्मपतिं स्मरन्ती । आदाय वीणां मलिना रुदन्ती मल्लारिका यौवनदूनचित्ता ॥”)