संस्कृत-शब्दकोशः

मल्लारी मल्लिक

मल्लि

वाचस्पत्यम्

मल्लि(ल्ली) ||‍ स्त्री मल्ल—इन् वा ङीप् । १ मल्लिकायाम् शब्दमा० संज्ञायां कन् । मल्लिका कृष्णवर्णदेहे आलोहितचञ्चु- चरणे २ हंसभेदे पुंस्त्री० मल्लिकाक्षोऽप्यत्र ।


शब्दकल्पद्रुमः

मल्लिः || पुं, (मल्लते धारयति विज्ञानमिति । मल्ल + “सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ । इति इन् ।)
चतुर्विंशतिवृत्तार्हतां मध्ये ऊनविंश- जिनः । इति हेमचन्द्रः । १ । २८ ॥


शब्दकल्पद्रुमः

मल्लिः || स्त्री (मल्ल + इन् ।)
मल्लिका । इति शब्दरत्नावली ॥



Correction: