वाचस्पत्यम्
मशक || पु० मश—वुन् । १ कीटभेदे (मशा) राजनि० । २ चर्म- मयजलपात्रभेदे ३ रोगभेदे शब्दर० । तद्रोगलक्षणं यथा “अवेदनं स्थिरं चैव यत्तु गात्रे प्रदृश्यत । माषवत् कृष्णमुत्पन्न मलिनं मशकं दिशेत्” गरु० पु० १७५ अ० ।
शब्दकल्पद्रुमः
मशकः || पुं, (मशति ध्वनतीति । मश् + अच् । संज्ञायां कन् ।)
कीटविशेषः । मशा इति भाषा ॥ तत्पर्य्यायः । वज्रतुण्डः २ सूच्यास्यः ३ सूक्ष्म- मक्षिकः ४ रात्रिजागरदः ५ । इति राज- निर्घण्टः ॥ (यथा, श्रीमद्भागवते । ३ । ३१ । २७ । “तुदन्त्यामत्वचं दंशा मशका मत्कुणादयः । रुदन्तं विगतज्ञानं कृमयः कृमिकं यथा ॥”)
तन्नाशकधूपो यथा, —
“त्रिफलार्ज्जुनपुष्पाणि भल्लातकशिरीषकम् । लाक्षासर्ज्जरसश्चैव विडङ्गश्चैव गुग्गुलुः । एतैर्धूपैर्म्मक्षिकाणां मशकानां विनाशनम् ॥” इति गारुडे १८१ अध्यायः ॥ चर्म्मभेदः । स तु स्वनामख्यातचर्म्मनिर्म्मित- स्नेहादिपात्रम् । रोगविशेषः । माशा इति हिन्दी । आँचिल इति वङ्गभाषा ॥ इति शब्द- रत्नावली ॥ * ॥
मशकरोगमाह । “अवेदनं स्थिरञ्चैव यत्तु गात्रे प्रदृश्यते । माषवत् कृष्णमुत्सन्नं मलिनं मशकं दिशेत् ॥” स्थिरं अचलम् । अस्य चिकित्सा यथा, —
“चर्म्मकीलं जतुमणिं मशकांस्तिलकालकान् । उत्कृत्य शस्त्रेण दहेत् क्षाराग्निभ्यामशेषतः ॥” इति भावप्रकाशः ॥ अपि च “लशुनानान्तु चूर्णस्य घर्षो मशकनाशनः ।” इति गारुडे १७५ अध्यायः ॥