वाचस्पत्यम्
मस || परिणामे अक० परिमाणे सक० दि० पर० सेट् । मस्यति इरित् अमसत् अमसीत् अमासीत् । पुषादिरयं तेन अमसदित्येवेति पाणिनीयाः ।
शब्दकल्पद्रुमः
मस || इर् य ई परिमाणे । परिणामे । इति कवि- कल्पद्रुमः ॥ (दिवा०-पर०-सक०-सेट् । निष्ठाया- मनिट् ।)
इर्, अमसत् अमासीत् अमसीत् । अस्मात् पुषादित्वान्नित्यं ङ इत्यन्ये । य, मस्यति धान्यं गृही । परिमातीत्यर्थः । ई, मस्तः । परि- णामं कस्यचिदनुरोधात् । इति दुर्गादासः ॥