संस्कृत-शब्दकोशः

मस मसन

मसक

शब्दकल्पद्रुमः

मसकः || पुं, (मस्यते परिमीयतेऽसौ । मस + कर्म्मणि घः । अल्पार्थे कन् ।)
क्षुद्ररोग- विशेषः । मासा इति लोके प्रसिद्धः । तल्ल- क्षणं यथा, —
“अवेदनं स्थिरञ्चैव यत्तु गात्रे प्रदृश्यते । माषवत् कृष्णमुत्सन्नं मलिनं मसकं दिशेत् ॥” अवेदनं वेदनारहितम् । स्थिरम् अचलम् ॥ तच्चिकित्सा यथा, —
“चर्म्मकीलं जतुमणिं मसकांस्तिर्लकालकान् । उत्कृत्य शस्त्रेण दहेत् क्षाराग्निभ्याम- शेषतः ॥” इति भावप्रकाशः ॥



Correction: