शब्दकल्पद्रुमः
मसिः || स्त्री पुं, (मस्यते परिणमते इति । मस् + “सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ । इति इन् ।)
लिपिप्रयोजना । लेखनद्रव्यम् । इत्यमरटीकायां भरतः ॥ तत्पर्य्यायः । मसि- जलम् २ पत्राञ्जनम् ३ । इति त्रिकाण्डशेषः ॥ मेला ४ काली ५ अञ्जनम् ६ मसी ७ । इति शब्दरत्नावली ॥ रञ्जनी ८ । इति स्वामी ॥ मलिनाम्बु ९ मशी १० । इति हेमचन्द्रः । ३ । १४८ ॥ शेफालिकावृन्तम् । इति रुद्रः शब्द- रत्नावली च ॥