संस्कृत-शब्दकोशः

मसूरा मसूरी

मसूरिका

वाचस्पत्यम्

मसूरिका ||‍ स्त्री मसूरेव इवार्थे कन् । १ वसन्तरोगे २ कुट्टि- न्याञ्च शब्दमा० “कट्वम्ललवणक्षारविरुद्धाध्यशनाशनैः । दुष्टनिष्पावशाकाद्यैः प्रदुष्टपवनोदकैः । क्रुद्धग्रहेक्षणा- च्चापि देशे दोषाः समुद्धताः । जनयन्ति शरीरेऽस्मिन् दुष्टरेक्ते समुद्धताः । मसूराकृतिसंस्थानाः पिडक्राः स्युर्मसूरिकाः” भावप्र० ।


शब्दकल्पद्रुमः

मसूरिका || स्त्री (मसूरेव । मसूरा + कन् । स्त्रियां टाप् । अत इत्वञ्च ।)
कुट्टनी । इति शब्द- माला ॥ * ॥
वसन्तरोगः । तस्योत्पादनक्रिया टीका इति ख्याता । सा तु गोस्तनज-नर- गात्रज-मसूरिकापूयेन भवति । यथा, —
“धेनुस्तन्यमसूरिका नराणाञ्च मसूरिका । तज्जलं बाहुमूलाच्च शस्त्रान्तेन गृहीतवान् ॥ बाहुमूले च शस्त्राणि रक्तोत्पत्तिकराणि च । तज्जलं रक्तमिलितं स्फोटकज्वरसम्भवम् ॥” इति धन्वन्तरिकृतशाक्तेयग्रन्थः ॥ तत्पर्य्यायः । पापरोगः २ रक्तवटी ३ मसूरी ४ । इति शब्दरत्नावली ॥ * ॥
अथ मसूरिका- धिकारः । “तत्र मसूरिकाविप्रकृष्टनिदान- पूर्ब्बिकां संप्राप्तिमाह । ‘कट्वम्ललवणक्षारविरुद्धाध्यशनाशनैः । दुष्टनिष्पावशाकाद्यैः प्रदुष्टपवनोदकैः ॥ क्रुद्धग्रहेक्षणाच्चापि देशे दोषाः समुद्भवाः । जनयन्ति शरीरेऽस्मिन् दुष्टरक्तेन सङ्गताः ॥ मसूराकृतिसंस्थानाः पिडकाः स्युर्मसूरिकाः ॥’ क्षारो यवक्षारः । विरुद्धाध्यशनाशनैः कट्वा- दिविरुद्धान्तानामशनैः । अथ च अध्यशनाशनं अधिकमशनं अध्यशनम् । दुष्टनिष्पावशाकाद्यैः दुष्टैर्निष्पावशाकाद्यैः । आद्यशब्दान्मध्वालुकादि तैः । प्रदुष्टपवनोदकैः सविषकुसुमादिसंसर्गात् क्रुद्धग्रहेक्षणाच्चापि देशे देशे क्रुद्धग्रहा राहु- शनैश्चरादयस्तेषामीक्षणाद्दृष्टेः यस्मिन् देशे क्रुद्धग्रहदृष्टिः तत्रापि मसूरिकोत्पत्तिरित्यर्थः । मसूराकृतिसंस्थाना मसूरस्य या आकृति- स्तद्वत्संस्थानमाकृतिर्यासां ताः ॥ * ॥
अथ पूर्ब्बरूपमाह । ‘तासां पूर्ब्बं ज्वरः कण्डुर्गात्रभङ्गोऽरतिर्भ्रमः । त्वचि शोफः सवैवर्ण्यो नेत्ररागस्तथैव च ॥’ वातजामाह । ‘स्फोटाः कृष्णारुणा रूक्षास्तीव्रवेदनया- न्विताः । कठिनाश्चिरपाकाश्च भवन्त्यनिलसम्भवाः ॥ ‘सन्ध्यस्थिपर्व्वणां भेदः कासः कम्पोऽरतिर्भ्रमः । शोषस्ताल्वोष्ठजिह्वानां तृष्णा चारुचिसंयुता ॥’ पैत्तिकामाह । ‘रक्ताः पीताः सिताः स्फोटाः सदाहास्तीव्र- वेदनाः । भवन्त्यचिरपाकाश्च पित्तकोपसमुद्भवाः ॥ ‘विड्भेदश्चाङ्गमर्द्दश्च दाहस्तृष्णारुचिस्तथा । मुखपाकोऽक्षिपाकश्च ज्वरस्तीव्रः सुदारुणः ॥’ रक्तजामाह । ‘रक्तजायां भवन्त्येते विकाराः पित्तलक्षणाः ॥’ अथ कफजामाह । ‘श्वेताः स्निग्धाः भृशं स्थूलाः कण्डुरा मन्द- वेदनाः । मसूरिकाः कफोद्भूताश्चिरपाकाः प्रकीर्त्तिताः ॥ कफप्रसेकः स्तैमित्यं शिरोरुग्गात्रगौरवम् । हृल्लासः सारुचिनिद्रा तन्द्रालस्यसमन्विताः ॥’ सान्निपातिकीमाह । ‘नीलाश्चिपिटविस्तीर्णा मध्ये निम्ना महारुजः । पूतिस्रावाश्चिरं पाकाः प्रभूताः सर्व्वदोषजाः ॥’ सप्तधातुगतामाह । ‘मसूरिकास्त्वचं प्राप्तास्तोयवुद्वुदसन्निभाः । स्वल्पदोषाः प्रजायन्ते भिन्नास्तोयं स्रवन्ति च ॥’ त्वचं प्राप्ताः त्वच्छब्देनात्र रस उच्यते रसा- श्रयत्वात् ॥ * ॥
रक्तस्थामाह । ‘रक्तस्था लोहिताकाराः शीघ्रपाकास्तनुत्वचः । साध्या नात्यर्थदुष्टास्तु भिन्ना रक्तं स्रवन्ति च ॥’ साध्या रक्तस्था इत्यर्थः । नात्यर्थदुष्टास्तु अत्यर्थ- दुष्टशोणिताः पुनर्न साध्याः किन्तु कष्ट- साध्याः ॥ * ॥
मांसस्थामाह । ‘मांसस्थाः कठिनाः स्निग्धाश्चिरपाकास्तनु- त्वचः । गात्रशूलानिशं कण्डूर्मूर्च्छादाहतृषान्विताः ॥’ मेदस्थामाह । ‘मेदोजा मण्डलाकारा मृदवः किञ्चिदुन्नताः । घोरज्वरपरीताश्च स्थूलाः स्निग्धाः सवेदनाः । सम्मोहारतिसन्तापाः कश्चिदाभ्यो विनिस्तरेत् ॥’ अस्थिमज्जागते प्राह । ‘क्षुद्रा गात्रसमा रूक्षाश्चिपिटाः किञ्चिदुन्नताः । भज्जस्था भृशसम्मोहवेदनारतिसंयुताः ॥ भ्रमरेणेव विद्धानि कुर्व्वन्त्यस्थीनि सर्व्वतः । छिन्दन्ति मर्म्मधामानि प्राणानाशु हरन्ति ताः ॥’ गात्रसमाः गात्रतुल्यवर्णाः । चिपिटाः चिपि- टाकाराः । मज्जाग्रहणेनास्थ्नोऽपि ग्रहणं तदाधारत्वात् । अतएवाग्रे भ्रमरेणेव विद्धानि कुर्व्वन्त्यस्थीनि सर्व्वत इति । मर्म्मधामानि मर्म्मस्थानानि ॥ * ॥
शुक्रगतामाह । ‘पक्राभाः पिडकाः स्निग्धाः श्लक्ष्णाश्चात्यर्थ- वेदनाः । स्तमित्यारतिसग्मोहदाहोन्मादसमन्विताः ॥ शुक्रगाया मसूर्य्यास्तु लक्षणानि भवन्ति हि । निर्द्दिष्टं केवलं चिह्रं जीवनन्तु न दृश्यते ॥’ पक्वाभाः पक्वाकाराः न तु पक्वाः । श्लक्ष्णाः कोमलाः । निर्द्दिष्टं केवलं चिह्रं नत्वस्या- श्चिकित्सा युक्ता यतो जीवनं न दृश्यते । सप्ताप्येता दोषहेतुं विना न भवन्ति । दोष- मन्तरेण रसादिदुष्टेरभावादित्यत आह । ‘दोषमिश्रास्तु सप्तैता द्रष्टव्या दोषलक्षणैः ॥’ चर्म्मजामाह । कण्ठरोधारुची तन्द्रा प्रलापारतिसंयुताः । दुश्चिकित्साः समुद्दिष्टाः पिडकाश्चर्म्मसंज्ञिताः ॥’ रोमान्तिकामाह । ‘रोमकूपोन्नतिसमा रागिण्यः कफपित्तजाः । कासारोचकसंयुक्ता रोमाञ्चज्वरपूर्ब्बिकाः ॥’ साध्याः प्राह । ‘त्वगन्ता रक्तगाश्चैव पित्तजाः श्लेष्मजास्तथा । श्लेष्मपित्तकृताश्चैव सुखसाध्या मसूरिकाः । इमा विनापि क्रियया प्रशाम्यन्ति शरी- रिणाम् ॥’ त्वग्गता रसगताः ॥ * ॥
कष्टसाध्यतमाः प्राह । ‘वातजा वातपित्तोत्था वातश्लेष्मकृताश्च याः । कष्टसाध्यतमास्तास्तु यत्नादेता उपाचरेत् ॥’ असाध्याः प्राह । ‘असाध्याः सन्निपातोत्थास्तासां वक्ष्यामि लक्षणम् । प्रबालसदृशाः काश्चित् काश्चिज्जम्बुफलोपमा । लोहजालसमाः काश्चिदतसीफलसन्निभाः ॥ आसां बहुविधा वर्णा जायन्ते दोषभेदतः ॥’ प्रबालसदृशा इत्यादि । आसां प्रबालजम्बुफल- लोहगुटिकातसीफलसादृश्यं वर्णेन । अनुक्त- वर्णसंग्रहार्थमाह । आसां बहुविधा वर्णा इति ॥ * ॥
अपराश्चासाध्याः प्राह । ‘कासो हिक्का प्रमोहश्च ज्वरस्तीव्रः सुदारुणः । प्रलापारतिमूर्च्छाश्च तृष्णा दाहोऽतिघूर्णता ॥’ दाहस्थाने दौर्गन्ध्य इति च पाठः । ‘मुखेन प्रस्रवेद्रक्तं तथा व्राणेन चक्षुषा । कण्ठे घुर्घुरकं कृत्वा श्वसित्यत्यर्थदारुणम् ॥ मसूरिकाभिभूतस्य यस्यैतानि भिषग्वरैः । लक्षणानीह दृश्यन्ते न दद्यात्तत्र भेषजम् ॥’ मसूरिकास्वरिष्टमाह । ‘मसूरिकाभिभूतो यो भृशं घ्राणेन निश्वसेत् । स भृशं त्यजति प्राणान् तृष्णार्त्तो वायुदूषितः ॥’ वायुदूषितः अपतानकादिवातव्याधिदूषितः ॥ मसूरिकाहैतुकं शोथविशेषमाह । ‘मसूरिकान्ते शोथः स्यात् कूर्परे मणिबन्धके । तयांसफलके वापि दुश्चिकित्सः सुदारुणः ॥’ दुश्चिकित्सः कष्टसाध्यः । दुःशब्दोऽत्र निषेधे तेनासाध्य इत्येके । ‘काश्चिद्विनापि यत्नेन सिध्यन्त्याशु मसूरिकाः । दृष्टाः कृच्छ्रतराः काश्चित् काश्चित् सिध्यन्ति वा नवा ॥ काश्चिन्नैव तु सिध्यन्ति साध्यमानाः प्रयत्नतः ॥’ अथ मसूरिकायाश्चिकित्सा । ‘मसूरिकायां कुष्ठोक्ता लेपनादिक्रिया हिता । पित्तश्लेष्मविसर्पोक्तक्रिया चात्र प्रशस्यते ॥ श्वेतचन्दनकल्कोक्तं हिलमोचीभवं द्रवम् । पिबेन्मसूरिकारम्भे नैव वा केवलं रसम् ॥’ हिलमोचिका शाकविशेषः । हुरहुर इति लोके । ‘द्बे पञ्चमूत्यौ रास्ना च धात्त्रुशीरं दुरालभा । सामृतं धान्यकं मुस्तं जयेद्वातमसूरिकाम् ॥ मञ्जिष्ठा बहुपात्प्लक्षशिरीषोडुम्बरत्वचः । वातजायां मसूर्य्यां स्यात् प्रलेपः सघृतो हितः ॥’ बहुपाद्वटः । ‘गुडूची मधुकं द्राक्षा मोरटं दाडिमैः सह । पाककाले प्रदातव्यं भेषजं गुडसंयुतम् ॥ तेन कुप्यति नो वायुः पाकं यान्ति मसूरिकाः । मसूरिकासु भुञ्जीत शालीन् मुद्गान् मसूर- कान् ॥ रसं मधुरमेवाद्यात् सैन्धवञ्चाल्पमात्रकम् । पटोलमूलं क्वथितं मोरटं सुरसं तथा ॥’ पटोलमूलं क्वथितमित्यत्रं पटोलं कथितञ्चैवेति वा पाठः । ‘आदावेंव मसूर्य्यान्तु पित्तजायां प्रयोजयेत् । निम्बपर्पटकः पाठा पटोलश्चन्दनद्वयम् ॥ उशीरं कटुका धात्री तथा वासा दुरालभा । एषां पानं शुभं शीतमुत्तमं शर्करान्वितम् । मसूर्य्यां पित्तजायान्तु प्रयोक्तव्यं विजानता ॥ दाहे ज्वरे विसर्पे च व्रणे पित्ताधिकेऽपि च । मसूर्य्यो रक्तजा नाशं यान्ति शोणितमोक्षणैः ॥ वासामुस्तकभूनिम्बत्रिफलेन्द्रयवासकम् । पटोलारिष्टकं वापि क्वाथयित्वा समाक्षिकम् । पिबेत्तेन प्रशाम्यन्ति मसूर्य्यः कफसम्भवाः ॥’ इन्द्रः इन्द्रयवः ॥ * ॥
‘शिरीषोडम्बरत्वग्भ्यां खदिरारिष्टजैर्जलैः । कफोत्थासु मसूरीषु लेपः पित्तोत्थितासु च ॥’ * ॥
निम्बपर्पटकः पाठा पटोलः कटुरोहिणी । चन्दने द्वे उशीरञ्च धात्री वासा दुरालभा ॥ एष निम्बादिकः क्वाथः पीतः शर्करयान्वितः । मसूरीं सर्व्वजां हन्ति ज्वरवीसर्पसंयुताम् ॥ * ॥
उत्थिता प्रविशेद् या च तां पुनर्ब्बाह्यतो नयेत् । काञ्चनारस्त्वचः क्वाथस्ताप्यचूर्णावचूर्णितः ॥’ ताप्यं सुवर्णमाक्षिकम् । ‘घात्रीफलं समधुकं क्वथितं मधुसंयुतम् । मुखे कण्ठे व्रणे जाते गण्डूषार्थं प्रशस्यते ॥ * ॥
अक्ष्णोः सेकं प्रशंसन्ति गवेधुमधुकाम्बुना । गवेधुर्गवेधुका । गवडुया इति लोके । मधुकं त्रिफला मूर्व्वा दार्व्वी त्वक् नीलमुत्पलम् । उशीरलोध्रमञ्जिष्ठा प्रलेपाश्चोतने हिताः । नश्यन्त्यनेन दृगजाता मसूर्य्यो न भवन्ति च ॥ प्रलेपं चक्षुषोर्द्दद्याद्बहुवारस्य बल्कलैः । पञ्चबल्कलचूर्णेन क्लेदिनीमवधूनयेत् । भस्मना केचिदिच्छन्ति केचिद्गोमयरेणुना ॥ सुषवीपत्रनिर्यासं हरिद्राचूर्णसंयुतम् । रोमजज्वरसंयुक्तव्रणानां शान्तये पिबेत् ॥’ निर्यासं द्रवम् ॥ * ॥
अथ मसूरिकाभेदस्य शीतलाया अधिकारः । तत्र शीतलाया रूप- माह । ‘देव्या शीतलयाक्रान्ता मसूर्य्येव हि शीतला । ज्वर एव तथा भूताधिष्ठितो विषमज्वरः । सा च सप्तविधा ख्याता तासां भेदान् प्रचक्षते ॥ ज्वरपूर्ब्बा बृहत्स्फोटैः शीतला बृहती भवेत् । सप्ताहान्निःसरत्येषा सप्ताहात् पूर्णतां व्रजेत् ॥ ततस्तृतीये सप्ताहे शुष्यति स्खलति स्वयम् । तासां मध्ये यदा काचित् पाकं गत्वा स्फुटं स्रवेत् ॥ तत्रावधूननं कुर्य्याद्वनगोमयभस्मना । निम्बसत्पत्रशाखाभिर्मक्षिकामपसारयेत् ॥ जलञ्च शीतलं दद्यात् ज्वरेऽपि न तु दापयेत् । स्थापयेत्तं स्थले पूते रम्ये रहसि शीतले ॥ नाशुचिः संस्पृशेत्तन्तु न च तस्यान्तिकं व्रजेत् । बहवो भिषजो नात्र भेषजं योजयन्ति हि ॥ केचित् प्रयोजयन्त्येव मतन्तेषामथ ब्रुवे ॥ * ॥
ये शीतलेन सलिलेन विपिष्य सम्यक् चिञ्चाजबीजसहितां रजनीं पिबन्ति । तेषां भवन्ति न कदाचिदपीह देहे पीडाकरा जगति शीतलिका विकाराः ॥ मोचारसेन सहितं सितचन्दनेन वासारसेन मधुकं मधुकेन वाथ । आदौ पिबन्ति सुमनाःस्वरसेन मिश्रं ते नाप्नुवन्ति भुवि शीतलिकाविकारान् ॥’ मोचारसेन कदलीस्तम्भजलेन । मधुकेन वाथ अथवा मधुना । आदौ पूर्ब्बरूपे ज्वरागमन- मात्रे । सुमनाःस्वरसेन जातीपत्ररसेन । ‘शीतलासु क्रिया कार्य्या शीतला रक्षया सह । बध्नीयान्निम्बपत्राणि परितो भवनान्तरे ॥ कदाचिदपि नो कार्य्यमुच्छिष्टस्य प्रवेशनम् । स्फोटेष्वधिकदाहेषु रक्षारेणूत्करो हितः ॥ तेन ते शोषमायान्ति प्रपाकं न भजन्ति च । रक्षारेणूत्करः शुष्कगोमयभस्मचूर्णतः ॥ चन्दनं वासको मुस्तं गुडूची द्राक्षया सह । एषां शीतकषायस्तु शीतलाज्वरनाशनः ॥’ शीतकषायो हिमः । ‘जपहोमोपहारैश्च दानस्वस्त्ययनार्च्चनैः । विप्रगोशम्भगौरीणां पूजनैस्तां समं नयेत् ॥ स्त्रोत्रञ्च शीतलादेव्याः पठेत् शीतलिनोऽन्तिके । ब्राह्मणः श्रद्धया युक्तस्तेन शाम्यति शीतला ॥ स्कन्द उवाच । भगवन् ! देवदेवेश ! शीतलायाः स्तवं शुभम् । वक्तुमर्हस्यशेषेण विस्फोटकभयापहम् ॥ ईश्वर उवाच । नमामि शीतलां देवीं रासभस्थां दिगम्बरीम् । मार्जनीकलसोपेतां सूर्पालङ्कृतमस्तकाम् ॥ वन्देहं शीतलां देवीं सर्व्वरोगभयापहाम् । यामासाद्य निवर्त्तेत विस्फोटकभयं महत् ॥ शीतले शीतले चेति यो ब्रूयाद्दाहपीडितः । विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति ॥ यस्त्वामुदकमध्य तु धृत्वा संपूजयेन्नरः । विस्फोटकभयं घोरं कुले तस्य न जायते ॥ शीतले ज्वरदग्धस्य पूतिगन्धगतस्य च । प्रनष्टचक्षुषः पुंसस्त्वामाहु जींवनौषधम् ॥ शीतले तनुजान् रोगान् नृणां हरसि दुस्तरान् । विस्फोटकविशीर्णानां त्वमेकामृतवर्षिणी ॥ गलगण्डग्रहा रोगा ये चान्ये दारुणा नृणाम् । त्वदनुध्यानमात्रेण शीतले यान्ति ते क्षयम् ॥ न मन्त्रो नौषधं किञ्चित् पापरोगस्य विद्यते । त्वमेका शीतले ! त्रात्री नान्यां पश्यामि देव- ताम् ॥ मृणालतन्तुसदृशीं नाभिहृन्मध्यसंस्थिताम् । यस्त्वां विचिन्तयेद्देवों तस्य मृत्युर्न जायते ॥ अष्टकं शीतलादेव्या यः पठेन्मानवः सदा । विस्फोटकभयं घोरं कुले तस्य न जायते ॥ श्रोतव्यं पठितव्यञ्च नरैर्भक्तिसमन्वितैः । उपसर्गविनाशाय परं स्वस्त्ययनं महत् ॥ शीतलाष्टकमेतद्धि न देयं यस्य कस्यचित् । दातव्यं हि सदा तस्मै भक्तिश्रद्धान्वितो हि यः ॥’ इति श्रीस्कन्दपुराणे काशीखण्डे शीतलाष्टक- स्तोत्रं समाप्तम् ॥” इति भावप्रकाशे मध्यखण्डे चतुर्थो भागः ॥


शब्दकल्पद्रुमः

मसूरिका || स्त्री मशहरी । मशारि इति भाषा । यथा —
“दंशांश्च मशकांश्चैव वर्षाकाले निवारयेत् । मसूरिकाभिः प्रावृत्य मञ्चशायिनमच्युतम् ॥” इति पाद्मे क्रियायोगसारे १२ अध्यायः ॥



Correction: