वाचस्पत्यम्
मस्करिन् || पु० मस्करो ज्ञानं गतिर्वास्त्यस्य इनि, मा कर्त्तुं कर्म निषेद्धुं शीलमस्य मा + कृ—इनि “मस्करमस्करिणा- विति” निवा० । १ परिव्राजके विधानेन स्वकर्मपरित्याजके भिक्षौ अमरः । “धारयन् मस्करिव्रतम्” मट्टिः २ चन्द्रे च शब्दच० ।
शब्दकल्पद्रुमः
मस्करी || [न्] पुं, (मस्कते इतस्ततो गच्छत्यनेनेति । मस्क + बाहुलकादरः । मस्करो दण्डः सोऽ- स्त्यस्येति । मस्कर + इनिः । यद्वा, मा कर्त्तुं कर्म्म निषेद्धुं शीलमस्य । “मस्करमस्करिणौ वेणुपरिव्राजकयोः ।” ६ । १ । १५४ । इति इनिर्निपात्यते ।)
भिक्षुः । इत्यमरः । २ । ७ । ४७ ॥ (यथा, भट्टिकाव्ये । ५ । ६३ । “अधीयन्नात्मविद्विद्यां धारयन् मस्करिव्रतम् । वदन् बह्वङ्गुलिस्फोटं भ्रूक्षेपञ्च विलोकयन् ॥”)
चन्द्रः । इति शब्दचन्द्रिका ॥