संस्कृत-शब्दकोशः

मस्तिष्क मस्तुलुङ्ग

मस्तु

शब्दकल्पद्रुमः

मस्तु || क्ली (मस्यति परिणमतीति । मस् + “सितनिगमिमसिसच्यविधाञ् क्रुशिभ्यस्तुन् ।” उणा० १ । ७० । इति तुन् ।)
दधिभव- मण्डम् । दधिर मात् इति भाषा ॥ इत्यमरः २ । ९ । ९४ ॥ दधिजलम् । द्विगुणवारियुतं दधि । अस्य गुणाः । “उष्णाम्लं रुचिपित्तदं श्रमहरं बल्यं कषायं सरं भुक्तिच्छन्दकरं तृषोदरगदप्लीहार्शसां नाश- नम् । श्रोतःशुद्धिकरं कफानिलहरं विष्टम्भशूलापहं पाण्डुश्वासविकारगुल्मशमनं मस्तु प्रशस्तं लघु ॥” इति राजनिर्घण्टः ॥ अपि च । “मस्तु क्लमहरं स्वल्पं लघु भुक्ताभिलाषकृत् । श्रोतोविशोधनं ह्लादि कफतृष्णाविलापहम् ॥ अवृष्यं प्रीणनं शीघ्रं भिनत्ति मलसंग्रहम् ॥” इति भावप्रकाशः ॥



Correction: