संस्कृत-शब्दकोशः

महछ महतीद्वादशी

महती

वाचस्पत्यम्

महती ||‍ स्त्री मह—अत् + गौरा० ङीष् । १ वीणाभेदे अमरः २ नारदवीणायाम् भरतः । “अवेक्षमाणं महतीं मुहुर्मुहुः” माघः । ३ वृहत्यां ४ वार्त्ताक्यां ५ विपुलायां स्त्रियाञ्च राजनि० । समासे तीस्थाने आ । महत्या० घासः महाघासः इत्यादि ।


शब्दकल्पद्रुमः

महती || स्त्री (महत् + ङीष् ।)
वल्लकीभेदः । इति मेदिनी । ते, १४० ॥ नारदवीणा । बृहत्- प्रमाणा । इत्यमरटीकायां भरतः ॥ (यथा, शिशुपालवधे । १ । १० । “स्फुटीभवद्ग्रामविशेषमूर्च्छना- मवेक्षमाणं महतीं मुहुर्मुहुः ॥”)
बृहती । वार्त्ताकी । इति राजनिर्घण्टः ॥ (कुश- द्बीपस्थनदीविशेषः । यथा, मात्स्ये । १२१ । ७४ । “महती सप्तमी प्रोक्ता पुनश्चैषा धृतिः स्मृता । अन्यास्ताभ्योऽपि सञ्जाता शतशोऽथ सह- स्रशः ॥” पारिपात्रनिर्गतनदीविशेषः । यथा, मात्स्ये । ११३ । २३ — २४ । “वर्णाशा चन्दना चैव कावेरी महती तथा । पारा चर्म्मण्वती पुष्पा विदुषा वेणुमत्यपि । शिप्रा ह्यवन्ती कुन्ती च पारिपात्राश्रिताः स्मृताः ॥”)



Correction: