संस्कृत-शब्दकोशः

महस महा

महस्

वाचस्पत्यम्

महस् ||‍ न० मह—असुन् । १ तेजसि २ उत्सवे च मेदि० ३ यज्ञे शब्दर० ।


शब्दकल्पद्रुमः

महः || [स्] क्ली, (मह्यते पूज्यतेऽस्मिन्निति । मह + “सर्व्वधातुभ्योऽसुन् ।” उणा० ४ । १८८ । इति असुन् ।)
उत्सवः । (मह्यते पूज्यते इति । मह + असुन् ।)
तेजः । इति मेदिनी । से, ३० ॥ (यथा, रघुटीकारम्भे मल्लिनाथः । “अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् । तं नरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं महः ॥” मह्यन्ते पूज्यन्ते देवादयोऽस्मिन्निति । मह + असुन् ।)
यज्ञः । इति शब्दरत्नावली ॥ (उद- कम् । इति निघण्टुः । १ । १२ ॥ पूज्यमाने, त्रि । यथा, वाजसनेयसंहितायाम् । २० । ६ । “जिह्वा मे भद्रं वाङ्महो मनो मन्युः स्वरात् भामः ॥” “वाक् वागिन्द्रियं महः पूज्यमानास्तु ।” इति तद्भाष्ये महीधरः ॥ महति । यथा, ऋग्वेदे । ८ । २३ । १६ । “महो राये तमुत्वा समिधीमहि ।” “महो महते राये धनाय ।” इति तद्भाष्ये सायनः ॥)



Correction: