संस्कृत-शब्दकोशः

महागव महागुरु

महागिरि

शब्दकल्पद्रुमः

महागिरिः || पुं, (महान् गिरिस्तदाख्योपाधिर्यस्य । यद्वा, महान् गिरिरिव ।)
बौद्धभेदः । यथा —
“महागिरिः सुहस्त्याद्या वज्रान्ता दश- पूर्ब्बिणः ॥” इति हेमचन्द्रः । १ । ३४ ॥ महान् गिरिः पर्व्वतः ।)
बृहत्पर्व्वतश्च ॥ (यथा, महाभारते । ३ । ११० । १५ । “नातप्रतपसा शक्यो द्रष्टुमेष महागिरिः । आरोढुं वापि कौन्तेय ! तस्मान्नियतवाग्भव ॥” दानवविशेषः । यथा, हरिवंशे । ३ । ८६ । “सूक्ष्मश्चैव निचन्द्रश्च उर्णनाभो महागिरिः ॥”)



Correction: