वाचस्पत्यम्
महाङ्ग || पुंस्त्री० महदङ्गमस्य । १ उष्ट्रे स्त्रियां ङीष् । २ गोक्षु- रके ३ रक्तचित्रके च राजनि० । ४ विपुलावयवयुते त्रि० । कर्म० । ५ विपुलाङ्गे न० ।
शब्दकल्पद्रुमः
महाङ्गः || पुं, (महान्ति दीर्घाणि अङ्गान्यस्य ।)
उष्ट्रः । इत्यमरः । २ । ९ । ७५ ॥ गोक्षुरकः । रक्तचित्रकः । इति राजनिर्घण्टः ॥ बृहदव- यवयुक्ते, त्रि ॥ (यथा, महाभारते । १३ । १७ । ८३ । “स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः । उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः ॥”)