शब्दकल्पद्रुमः
महाजवः || पुं, (महान् जवो वेगो यस्य ।)
गवयः । श्रीकारी मृगः । इति राजनिर्घण्टः । अति- वेगयुक्ते, त्रि ॥ (यथा, श्रीमद्भागवते । ७ । ८ । २८ । “कृत्वाट्टहासं खरमुत्स्वनोल्वणं निमीलिताक्षं जगृहे महाजवः ॥” स्त्री, कुमारानुचरगणविशेषः । यथा, महा- भारते । ९ । ४६ । २२ । “शशोलूकमुखी कृष्णा खरजङ्घा महाजवा ॥”)