वाचस्पत्यम्
महातल || न० कर्म० । अधःस्थेषु पातालेषु मध्ये पञ्चमे पाताले शब्दमा० ।
शब्दकल्पद्रुमः
महातलं || क्ली (महच्च तत्तलञ्चेति ।)
पाताल- विशेषः । यथा, शब्दमालायाम् । “अतलं वितलञ्चैव नितलञ्च तलातलम् । महातलञ्च सुतलं सप्तमञ्च रसातलम् ॥” (यथा च श्रीमद्भागवते । २ । १ । २६ । “पातालमेतस्य हि पादमूलं पठन्ति पार्ष्णिप्रपदे रसातलम् । महातलं विश्वसृजोऽथ गुल्फौ तलातलं वै पुरुषस्य जङ्घे ॥”)