वाचस्पत्यम्
महातारा || स्त्री कर्म० । तन्त्रोक्ते १ तारिणीभेदे २ जिनदेव्यां हेमच० ।
शब्दकल्पद्रुमः
महातारा || स्त्री (तारयति संसारादिति । तृ + णिच् + अच् । स्त्रियां टाप् । ततो महती तारेति कर्म्मधारयः ।)
जिनानां देवीविशेषः । तत्पर्य्यायः । तारा २ महाश्रीः ३ ओङ्कारा ४ स्वाहा ५ श्रीः ६ मनोरमा ७ तारिणी ८ जया ९ अनन्ता १० शिवा ११ लोकेश्वरा १२ आत्मजा १३ खदूरवासिनी १४ भद्रा १५ वैश्या १६ नीलसरस्वती १७ शङ्खिनी १८ वसुधारा १९ धनंददा २० त्रिलोचना २१ लोचना २२ । इति हेमचन्द्रः ॥