शब्दकल्पद्रुमः
महादण्डः || पुं, (महान् दण्डस्ताडनसाधनमस्य ।)
यमदूतप्रभेदः । इति बृहद्धर्म्मपुराणे ५६ अध्यायः ॥ (महान् दण्डः ।)
बृहद्दण्डश्च ॥ (यथा, महाभारते । ५ । १९४ । ३७ । “यस्माज्जानन् स मन्दात्मा मामसौ नोपसर्पति । तस्मात्तस्मै महादण्डो धार्य्यः स्यादिति मे मतिः ॥”)