संस्कृत-शब्दकोशः

महादारु महादेवी

महादेव

वाचस्पत्यम्

महादेव ||‍ पु० कर्म० । “ब्रह्मादीनां सुराणाञ्च मुनीनां ब्रह्म- वादिनाम् । तेषां महत्त्वात् देवोऽयं महादेवः प्रकी- र्त्तितः” इत्युक्ते “महती पूजिता विश्वे मूलप्रकृतिरी- श्वरी । तस्याः देवः पूजितश्च महादेवस्ततः स्मृतः” इत्युक्ते च शिवे ।


शब्दकल्पद्रुमः

महादेवः || पुं, (महांश्चासौ देवश्चेति । यद्वा, महतां देवादीनां देवः ।)
शिवः । इत्यमरः । १ । १ । ३४ ॥ अष्टमूर्त्त्यन्तर्गतसोममूर्त्तिरयम् । यथा, महादेवाय सोममूर्त्तये नमः । इति शिवपूजापद्धतिः ॥ * ॥
अस्य व्युत्पत्तिर्यथा —
“ब्रह्मादीनां सुराणाञ्च मुनीनां ब्रह्मवादिनाम् । तेषाञ्च महतां देवो महादेवः प्रकीर्त्तितः ॥ भहती पूजिता विश्वे मूलप्रकृतिरीश्वरी । तस्या देवः पूजितश्च महादेवः स च स्मृतः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५३ अध्यायः ॥ तस्य पञ्चवक्त्रत्वत्रिनेत्रत्वकारणं यथा, —
“अतीव कमनीयाङ्गं किशोरं श्यामसुन्दरम् । अहो निर्व्वचनीयञ्च दृष्ट्वा रूपमनुत्तमम् । न बभूव वितृष्णश्च लोचनाभ्यां त्रिलोचनः ॥ पश्यन्निमेषरहित इति मत्वा स्वमानसे । भक्त्युद्रेकान्महाभक्तो रुरोद प्रेमविह्वलः ॥ सहस्रवदनोऽनन्तो भाग्यवांश्च चतुर्म्मुखः । वहुभिर्लोचनैर्दृष्ट्वा तुष्टाव बहुभिर्मुखैः ॥ पश्यामि किं वा किं स्तौमि संप्राप्य नाथ- मीदृशम् । आस्यैकेन लोचनाभ्यां चतुर्धा स पुनः पुनः ॥ स्वमानसे कुर्व्वतीदं शङ्करे च तपस्विनि । तद्वभूव चतुर्व्वक्त्रं पूर्ब्बेण सह पञ्चमम् ॥ एकैकवक्त्रं शुशुभे लोचनैश्च त्रिभिस्त्रिभिः । बभूव तेन तन्नाम पञ्चवक्त्रस्त्रिलोचनः ॥ चक्षूंषि गुणरूपाणि तस्य ब्रह्मस्वरूपिणः । सत्त्वं रजस्तम इति तस्य हेतुं निशामय ॥ सत्त्वांशेन दृशा शम्भुः पश्यन् पाति च सात्त्वि कान् । राजसेन राजसिकान् तामसेन च तामसान् ॥ चक्षुषस्तामसात् पश्चात् ललाटस्थाद्धरस्य च । संहारकाले संहर्त्तुरग्निराविर्भवेत् क्रुधा ॥ कोटितालप्रमाणश्च सूर्य्यकोटिसमप्रभः । लेलिहानो दीर्घशिखस्त्रैलोक्यं दग्धुमीश्वरः ॥” तस्य भस्मधारणकारणं यथा, —
“विभूतिगात्रः स विभुः सतीसत्कारभस्मना । धत्ते तस्या अस्थिमालां प्रेमभावेन भस्म च ॥ स्वात्मारामो यद्यपीशस्तथापि पूर्णमब्दकम् । सतीशवं गृहीत्वा च भ्रामं भ्रामं रुरोद ह ॥ प्रत्यङ्गाङ्गञ्च तस्याश्च पपात यत्र यत्र च । सिद्धपीठस्तत्र तत्र बभूव मन्त्रसिद्धिकृत् ॥ तदा शवावशेषञ्च कृत्वा वक्षसि शङ्करः । पपात मूर्च्छितो भूत्वा सिद्धक्षेत्रे च राधिके ! ॥ तदा गत्वा महेशन्तं कृत्वा क्रोडे प्रबोध्य च । अददं दिव्यतत्त्वञ्च तस्मै शोकहरं परम् ॥ तदा शिवश्च सन्तुष्टः स्वलोकञ्च जगाम ह । मूर्त्त्यन्तरेण कालेन तां संप्राप प्रियां सतीम् ॥” तस्य दिगम्बरत्वजटाधारित्वकारणं यथा, —
“दिग्वस्त्रधारी योगेन नेच्छाऽनित्ये पटे विभोः । जटास्तपस्याकालीना धत्तेऽद्यापि विवेकतः ॥ न चेच्छा केशसंस्कारे स्वाङ्गवेशेन योगिनः । समता चन्दने पङ्के लोष्ट्रे रत्ने मणीश्वरे ॥” तस्य नागभूषणत्ववृषवाहनत्वकारणं यथा, —
“गरुडद्वेषिणो नागाः शङ्करं शरणं ययुः । बिभर्त्ति कृपया स्वाङ्गे तानेव शरणागतान् ॥ वाहनं वृषरूपोऽहमन्यस्तं वोढुमक्षमः । त्रिपुरस्य वधे पूर्ब्बं मत्कलांशसमुद्भवः ॥” तस्य धुस्तूरपुष्पविल्वपत्रप्रियत्वव्याघ्रचर्म्मधारित्व- श्मशानस्थायित्वकारणं यथा, —
“पारिजातादिकं पुष्पं सुगन्धिचन्दनादिकम् । मयि संन्यस्य तेष्वेव प्रीतिर्नास्ति कदाचन ॥ धुस्तूरे तत् सदा प्रीतिर्व्विल्वपत्रानुलेपने । गन्धहीने प्रसूने च योगेष्टे व्याघ्रचर्म्मणि ॥ दिव्यलोके दिव्यतल्पे जनतायां न तन्मनः । श्मशानेऽतीवरहसि ध्यायते मामहर्न्निशम् ॥” तस्य महिमादि यथा, —
“आब्रह्मतृणपर्य्यन्तं स्वप्नवन्मन्यते शिवः । ममानिर्व्वचनीयेऽत्र रूपे तन्मग्नमानसम् ॥ ब्रह्मणः पतनेनापि शूलपाणेः क्षणो भवेत् । तस्यायुषः प्रमाणञ्च नाहं जानामि का श्रुतिः ॥ ज्ञानं मृत्युञ्जयं शूलं धत्ते मत्तेजसा समम् । विना मया न कश्चित्तं शङ्करं जेतुमीश्वरः ॥ शङ्करः परमात्मा मे प्राणेभ्योऽपि परः शिवः । त्र्यम्बके मन्मनः शश्वन्न प्रियो मे भवात् परः ॥ न संवसामि गोलोके वैकुण्ठे तव वक्षसि । सदाशिवस्य हृदये निबद्धः प्रेमपाशतः ॥ स्रष्टुं शक्तो हि नष्टुञ्च भ्रूभङ्गलीलया हि यः । ब्रह्माण्डनिकरं योगान्न योगी शङ्करात् परः ॥ दिव्यज्ञानेन यः स्रष्टुं नष्टुं भ्रूभङ्गलीलया । मृत्युकालादिकं शक्तो न ज्ञानी शङ्करात् परः ॥ मम भक्तिञ्च दास्यञ्च मुक्तिञ्च सर्व्वसम्पदम् । सर्व्वसिद्धिं दातुमीशो न दाता शङ्करात् परः ॥ पञ्चवक्त्रेण मन्नाम यशो गायत्यहर्निशम् । मद्रूपं ध्यायते शश्वन्न भक्तः शङ्करात् परः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३६ अध्यायः ॥ शिवनैवेयभक्षणदोषकारणादिकं यथा, — राधिकोवाच । “एवंभूतस्य च विभोः सर्व्वेशस्य महात्मनः । न शस्तं कथमुच्छिष्टं ब्रूहि सन्देहभञ्जन ! ॥ श्रीकृष्ण उवाच । शृणु देवि ! प्रवक्ष्येऽहमितिहासं पुरातनम् । पापेन्धनानां दहने ज्वलदग्निशिखोपमम् ॥ सनत्कुमारो वैकुण्ठमेकदा च जगाम ह । ददर्श भुक्तवन्तञ्च नाथं नारायणं द्बिजः ॥ तुष्टाव गूढैः स्तोत्रैश्च प्रणम्य भक्तितो मुदा । अवशेपं ददौ तस्मै सन्तुष्टो भक्तवत्सलः ॥ प्राप्तमात्रेण तत्रैव भुक्तं तेनापि किञ्चन । किञ्चिद्ररक्ष बन्धूनां भक्षणाय च दुर्लभम् ॥ सिद्धाश्रमे च तद्दत्तं गुरवे शूलपाणिने । भक्त्युद्रेकाच्च तत् सर्व्वं भुक्तञ्च प्राप्तिमात्रतः ॥ भुक्त्वा सुदुर्लभं वस्तु ननर्त्त प्रेमविह्वलः । पपात डमरुर्हस्तात् शृङ्गञ्च व्याघ्रचर्म्म च ॥ स्वयं निपत्य पश्चाच्च रुदन्मूर्च्छामवाप च । एतस्मिन्नन्तरे देवी दुर्गा दुर्गतिनाशिनी ॥ मुदा जगाम शीघ्रं तत्प्रसन्नवदनेक्षणा । रुदन्तं मूर्च्छितं दृष्ट्वा निपतन्तञ्च भक्तितः । प्रहस्य वार्त्तां पप्रच्छ कुमारं शूलपाणिनः ॥ सर्व्वं तां कथयामास कुमारः संपुटाञ्जलिः । श्रुत्वा चुकोप सा देवी शिवं प्रस्फुरिताधरा ॥ श्रुत्वा मनोहरं स्तोत्रं न शशाप शिवं शिवा । दुष्टं चक्रे तदुच्छिष्टमभक्ष्यं विदुषामपि ॥ सुचिरञ्च तपस्तप्त्वा मया लब्धस्त्वमीश्वरः । त्वया विष्णोः प्रसादेन वञ्चिताहं कथं विभो ! ॥ यतो न दत्तं नैवेद्यं विष्णोर्मह्यं त्वयाधुना । अतो मत्तो गृहाणैतत् फलमेव महेश्वर ! ॥ अद्य प्रभृति ये लोका नैवेद्यं भुञ्जते तव । ते जन्मैकं सारमेया भविष्यन्त्येव भारते ॥ इत्युक्त्वा पार्व्वती मानाद्रुरोद पुरतो विभोः । दृष्टिः पपात तत्कण्ठे नीलकण्ठो बभूव सः ॥ अपूर्ब्बं तव नैवेद्यं जन्ममृत्युजराहरम् । कृतं दुष्टं यतस्तस्मात् पश्य देहं त्यजामि च ॥ लिङ्गोपरि च यद्दत्तं तदेवाग्राह्यमीश्वर ! । सुपवित्रं भवेत्तत्र विष्णोर्नैवेद्यमिश्रितम् ॥ इत्येवं कथितं सर्व्वं त्वया पृष्टं सुरेश्वरि ! । अभिशस्तं शङ्करस्य निर्म्माल्यं येन हेतुना ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३७ अध्यायः ॥ तस्यावतारा यथा, — सूत उवाच । “वेदव्यासावताराणि द्वापरे कथितानि तु । महादेवावताराणि कलौ शृणुत सुव्रताः ॥ आदौ कलियुगे श्वेते देवदेवो महाद्युतिः । नाम्ना हिताय विप्राणामभूद्वैवस्वतेऽन्तरे ॥ हिमवच्छिखरे रम्ये छगले पर्व्वतोत्तमे । तस्य शिष्याः शिखायुक्ता बभूवुरमितप्रभाः ॥ श्वेतः श्वेतशिखश्चैव श्वेतास्यः श्वेतलोहितः । चत्वारस्ते महात्मानो ब्राह्मणा वेदपारगाः ॥ सुभावो दमनश्चाथ सुहोत्रः कङ्कणस्तथा । लोकाक्षिरथ योगीन्द्रो जैगीषव्यस्तु सप्तमे ॥ अष्टमे दधिबाहुः स्यान्नवमे वृषभः प्रभुः । भृगुस्तु दशमे प्रोक्तस्तस्मादुग्रपरः स्मृतः ॥ द्वादशेऽत्रिः समाख्यातो वाली चाथ त्रयोदशे । चतुर्द्दशे गौतमस्तु वेदशीर्व्वा ततः परम् ॥ गोकर्णश्चाभवत्तस्माद्भहारामः शिखण्ड्यथ । जटामाल्यश्च हासश्च दारुको लाङ्गली क्रमात् ॥ श्वेतस्तथा परः शूली तिण्डी मुण्डी च वै क्रमात् । सहिष्णुः सोमशर्म्मा च कुलीशो चान्तिमे प्रभुः ॥ वैवस्वतेऽन्तरे शम्भोरवतारास्त्रिशूलिनः । अष्टाविशतिविख्याता ह्यन्ते कलियुगे प्रभोः । तीर्थकार्य्यावतारः स्याद्देवेशो नकुलीश्वरः ॥” इति कौर्म्मे ५० अध्यायः ॥ * ॥
तस्याष्टषष्टिनामानि क्षेत्राणि च यथा, — मनुरुवाच । “मन्दरस्थं महादेवं ब्रह्मा पृच्छति शङ्करम् । केषु केषु च स्थानेषु द्रष्टव्योऽसि मया प्रभो ! ॥ ईश्वर उवाच । वाराणस्यां महादेवं प्रयागे तु महेश्वरम् । नैमिषे देवदेवञ्च गयायां प्रपितामहम् ॥ कुरुक्षेत्रे विदुः स्थाणुं प्रभासे शशिभूषणम् । पुष्करे तु अपोगन्धिं विश्वञ्च विमलेश्वरे ॥ अट्टहासे महानादं महेन्द्रे तु महाव्रतम् । उज्जयिन्यां महाकालमाकोटे तु महोत्कटम् ॥ शङ्कुकर्णे महातेजं गोकर्णे च महाबलम् । भैरवे भैरवाकारं भवं वस्त्रापदे विदुः ॥ उग्रं कनखले चैव भद्रकर्णाह्रदे शिवम् । देवदारुवने दिण्डिं चण्डीशं मध्यमङ्गले ॥ ऊर्द्धरेतं त्वरण्डे तु सकलाण्डे कपर्द्दिनम् । कृत्तिवाससमेकाग्रे सूक्ष्मं ताम्रातिकेश्वरे ॥ कालञ्जरे नीलकण्ठं श्रीकण्ठं मण्डलेश्वरे । ध्यानं सिद्धेश्वरे योगी गायत्त्रीञ्चोत्तरेश्वरे ॥ विजयं नाम काश्मीरे जयन्तं मरुकेश्वरे । हरिश्चन्द्रे हरिञ्चैव पुरिश्चन्द्रे तु शङ्करम् ॥ जटावासेश्वरे विद्यां सौम्यं कुब्जटकेश्वरे । भूतेश्वरे भस्मगात्रं जललिङ्गे जलेश्वरम् ॥ भिक्षुकं कर्णिकायान्तु वाराहं बिन्ध्यपर्व्वते । ताम्रं पश्चिमसन्ध्यायां विरजायां त्रिलोचनम् ॥ दृप्तेश्वरे त्रिशूलन्तु श्रीशैले त्रिपुरान्तकम् । जललिङ्गे विदुः कालिं कापालिं करवीरके ॥ दीप्तचक्रेश्वरे वेदं नेपाले पशुपतिं पतिम् । श्रीकारारोहणे कूटं दैविकायामुमापतिम् ॥ गङ्गायां सागरे त्वमरमोङ्कारममरकण्ठके । सप्तगोदावरे भीमं स्वयम्भुं नकुलेश्वरे ॥ कर्णिकारे गणाध्यक्षं कैलासे च गणाधिपम् । हेमकूटे विरूपाक्षं भूर्भुवं गन्धमादने । सिद्धेश्वरन्तु आकाशे पाताले चट्टकेश्वरम् ॥ अष्टषष्टिश्च नामानि देवदेवस्य धीमतः । पुराणे चोपगीतानि ब्राह्मणस्य स्वयम्भुवा ॥ यः पठेत् प्रातरुत्थाय स्नातो वा यदि वा शुचिः । मुच्यते सर्व्वपापेभ्यः शिवलोकं स गच्छति ॥” इत्याद्ये देवीपुराणे अष्टषष्टिनामानि महा- देवस्य ॥ * ॥
तस्य द्वादशनामस्तोत्रम् । “प्रथमस्तु महादेवो द्वितीयस्तु महेश्वरः । तृतीयः शङ्करो ज्ञेयश्चतुर्थो वृषभध्वजः ॥ पञ्चमः कृत्तिवासाश्च षष्ठः कामाङ्गनाशनः । सप्तमो देवदेवेशः श्रीकण्ठश्चाष्टमः स्मृतः ॥ ईश्वरो नवमो ज्ञेयो दशमः पार्व्वतीपतिः । रुद्र एकादशश्चैव द्बादशः शिव उच्यते ॥ द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः । कृतघ्नश्चैव गोघ्नश्च ब्रह्महा गुरुतल्पगः ॥ स्त्रीबालघातकश्चैव सुरापो वृषलीपतिः । मुच्यते सर्व्वपापेभ्यो रुद्रलोकं स गच्छति ॥” इति स्कन्दपुराणम् ॥ * ॥
तन्नामोच्चारणफलं यथा, —
“कोटयो ब्रह्महत्यानामगम्यागमकोटयः । सद्यः प्रलयमायान्ति महादेवेति कीर्त्तनात् ॥ महादेव महादेव महादेवेति वादिनम् । वत्सं गौरिव गौरीशो धावन्तमनुधावति ॥” इति पुराणम् ॥ * ॥
तस्य प्रणाममन्त्रः । “नमस्ये त्वां महादेव ! लोकानां गुरुमीश्वरम् । पुंसामपूर्णकामानां कामपूरामराङ्घ्रिपम् ॥” इति श्रीभागवतम् ॥ “महादेवं महात्मानं महायोगिनमीश्वरम् । महापापहरं देवं मकाराय नमो नमः ॥” इति तन्त्रम् ॥ * ॥
तस्य कालरूपवर्णनं यथा, — नारद उवाच । “कालरूपी त्वया ख्यातः शम्भुर्गगनगोचरे । लक्षणञ्च स्वरूपञ्च सर्व्वं व्याख्यातुमर्हसि ॥ पुलस्त्य उवाच । स्वरूपं त्रिपुरघ्नस्य वदिष्ये कालरूपिणः । अश्विनी भरणी चैव कृत्तिका प्रथमांशकम् ॥ मेषकं हि विजानीयात् कुजक्षेत्रमुदाहृतम् । आग्नेयांशास्त्रयो ब्रह्मन् ! प्राजापत्यं कवेर्गृहम् ॥ सौम्यार्द्धं वृषनामेदं वदनं परिकीर्त्तितम् । मृगार्द्धमार्द्रादित्यांशास्त्रयः सौम्यगृहन्त्विदम् ॥ मिथुनं भुजयोस्तस्य गगनस्थस्य शूलिनः । आदित्यांशश्च पुष्यञ्च अश्लेषा शशिनो गृहम् ॥ राशिः कर्कटको नाम पार्श्वेन खविलासिनः । पित्रर्क्षं भगदैवत्यं उत्तरांशश्च केशरी ॥ सूर्य्यक्षेत्रं विभोर्ब्रह्मन् हृदयं परिकीर्त्तितम् । उत्तरांशास्त्रयः पाणिश्चित्रार्द्धं कन्यका त्विदम् ॥ सोमपुत्त्रस्य सद्मैतत् द्वितीयं जठरं विभोः । चित्रांशद्वितयं स्वाती विशाखायांशकत्रयम् ॥ द्वितीयं शुक्रसदनं तुलानाभिरुदाहृतम् । विशाखांशमनुराधा ज्येष्ठा भौमगृहं त्विदम् ॥ द्वितीयं वृश्चिको राशिर्मेढ्रं कालस्वरूपिणः । मूलं पूर्ब्बोत्तरांशश्च देवाचार्य्यगृहं धनुः ॥ ऊरुयुगलमीशस्य अमरर्षे ! प्रगीयते । उत्तरांशास्त्रयो ऋक्षं श्रवणं मकरो मुने ! ॥ धनिष्ठार्द्धं शनिक्षेत्रं जानुनी परिकीर्त्तिते । धनिष्ठार्द्धं शतभिषा प्रोष्ठपद्यांशकत्रयम् ॥ सौरं सद्मापरमिदं कुम्भो जङ्घे च विश्रुते । प्रोष्ठपद्यांशमेकन्तु उत्तरा रेवती तथा ॥ द्वितीयं जीवसदनं मीनस्तु चरणावुभौ ॥ एवं कृत्वा कालरूपं त्रिनेत्रो यज्ञं क्रोधान्मार्गणैराजघान । विद्धश्चासौ वेदनाबुद्धियुक्तः खे सन्तस्थौ तारकाभिश्चिताङ्गः ॥” इति वामनपुराणे ५ अध्यायः ॥



Correction: