शब्दकल्पद्रुमः
महादेवी || स्त्री (महादेवस्य पत्नीति । पत्न्यर्थे ङीष् । यद्वा, महती चासौ देवी चेति ।)
दुर्गा । यथा, “अपर्णा स्यान्महादेवी गिरिजा मेनकात्मजा ॥” इति हलायुधः ॥ तस्या व्युत्पत्तिर्यथा, —
“पूज्यते या सुरैः सर्व्वैर्महांश्चैव प्रमाणतः । धातुर्महेति पूजायां महादेवी ततः स्मृता ॥” इति देवीपुराणे ४५ अध्यायः ॥ राज्ञी । पाटराणी इति भाषा । तत्पर्य्यायः । महिषी २ पट्टार्हा ३ पट्टदेवी ४ । इति राज- निर्घण्टः ॥ (यथा, कथासरित्सागरे । ५ । २९ । “अलिखत् स महादेवीं योगनन्दञ्च तं पटे । सजीवमिव तच्चित्रं वाक्चेष्टारहितं त्वभूत् ॥”)