संस्कृत-शब्दकोशः

महाद्रावक महाद्रोणा

महाद्रुम

वाचस्पत्यम्

महाद्रुम ||‍ पु० कर्म० । १ अश्वत्थवृक्षे शब्दच० । तस्य विष्णुरूपत्वात् महत्त्वम् । २ वृहद्वृक्षे च ।


शब्दकल्पद्रुमः

महाद्रुमः || पुं, (महांश्चासौ द्रुमश्चेति ।)
अश्वत्थ- वृक्षः । इति शब्दचन्द्रिका ॥ बृहद्वृक्षश्च ॥ (यथा, हरिवंशे । २२३ । ७२ । “चकोराः शतपत्राश्च मत्तकोकिलसारसाः । पुष्पितान् फलिताग्रांश्च संपतन्ति महाद्रुमान् ॥” शाकद्वीपपतेर्भव्यस्य सप्तमः पुत्त्रः । यथा, मार्क- ण्डेये । ५३ । २१ । “जलदश्च कुमारश्च सुकुमारो मनीवकः । कुशोत्तरोऽथ मेधावी सप्तमस्तु महाद्रुमः ॥”)



Correction: