संस्कृत-शब्दकोशः

महाद्रुम महाद्रोणी

महाद्रोणा

शब्दकल्पद्रुमः

महाद्रोणा || स्त्री (महती चासौ द्रोणा चेति ।)
वृक्षविशेषः । वडी द्रोणपुष्पी इति हिन्दी भाषा । तत्पर्य्यायः । देवकुरुम्बा २ दिव्यपुष्पा ३ महाद्रोणी ४ देवी ५ काञ्जी ६ देवद्रोणा ७ । अस्या गुणाः । कटुत्वम् । तिक्तत्वम् । मेध्यत्वम् । भूतार्त्तिवातकफाग्निमान्द्यनाशित्वम् । युक्त्या पारदशोधनत्वञ्च । इति राजनिर्घण्टः ॥



Correction: