वाचस्पत्यम्
महाधन || न० महत् मूल्यरूपं धनमस्य । १ बहुमूल्ये अमरः । २ सुवर्णे ३ सिह्लके च मेदि० । ४ मनोज्ञवस्त्रे हेमच० ५ कृषौ पु० शब्दरत्नावली । ६ अतिशयधनयुते त्रि० ।
शब्दकल्पद्रुमः
महाधनं || क्ली (महत् अनेकं धनं मूल्यत्वेनास्य ।)
बहुमूल्यवस्त्रम् । इत्यमरः । २ । ६ । ११३ ॥ सुवर्णम् । सिह्लकम् । इति मेदिनी । ने, २०१ ॥ चारुवस्त्रम् । इति हेमचन्द्रः ॥ कृषिः । इति शब्दरत्नावली ॥ (महदनेकं धनमस्मात् । संग्रामः । इति निघणुः । २ । १७ ॥ यथा, ऋग्वेदे । ८ । ६४ । १२ । “मा नो अस्मिन्महाधने परावर्गभारभृद् यथा ॥” “महाधने संग्रामे ।” इति तद्भाष्ये सायनः ॥ महच्च तद्धनच्चेति । प्रभूतधनम् । यथा, ऋग्- वेदे । १ । ७ । ५ । “इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे ॥” “महाधने प्रभूतधननिमित्तम् ।” इति तद्भाष्ये सायनः ॥ बहुमूल्ये, त्रि । यथा, किरातार्ज्जु- नीये । १ । ३८ । “पुराधिरूढं शयनं महाधनं विबोध्यसे यः स्तुतिगीतिमङ्गलैः । अदभ्रदर्भामधिशय्य संस्थलीं जहासि निद्रामशिवः शिवारुतैः ॥”)
अतिशयधनयुक्ते, च त्रि ॥