संस्कृत-शब्दकोशः

महानल महानस

महानवमी

वाचस्पत्यम्

महानवमी ||‍ स्त्री कर्म० । आश्विनशुक्लमधिकृत्य “ततोऽनु नवमी यस्मात् सा महानवमी स्मृता” इत्युक्तायाम् आश्विनशुक्लनवम्याम् ।


शब्दकल्पद्रुमः

महानवमी || स्त्री (महती चासौ नवमी चेति ।)
आश्विनशुक्लनवमी । यथा, — श्रीभगवानुवाच । “दुर्गातन्त्रेण मन्त्रेण कुर्य्युर्दुर्गामहोत्सवम् । महानवम्यां शरदि बलिदानं नृपादयः ॥ आश्विने शुक्लपक्षस्य भवेद्या अष्टमी तिथिः । महाष्टमीति सा प्रोक्ता देव्याः प्रीतिकरा परा ॥ ततोऽनु नवमी या स्यात् सा महानवमी स्मृता । सा तिथिः सर्व्वलोकानां पूजनीया शिवा- प्रिया ॥” इति कालिकापुराणे ५७ अध्यायः ॥ अपि च । “प्रावृट्काले विशेषेण आश्विने ह्यष्टमीषु च । महाशब्दो नवम्यान्तु लोके ख्यातिं गमिष्यति ॥” इति तिथ्यादितत्त्वम् ॥



Correction: