वाचस्पत्यम्
महानाटक || न० दृश्यकाव्यनाटकभेद “एवदेव यदा सर्वैः पताकास्थानकैर्युतम् । अङ्कैश्च दशभिर्धौरा महाना- टकमूचिरे” । सा ६ प० । २ हनुमन्नाटके च ।
शब्दकल्पद्रुमः
महानाटकं || क्ली (महच्च तत् नाटकञ्चेति ।)
नाटकविशेषः । तस्य लक्षणं यथा, —
“एतदेव यदा सर्व्वैः पताकास्थानकैर्युतम् । अङ्कैश्च दशभिर्धीरा महानाटकमूचिरे ॥ एतदेव नाटकम् । यथा, बालरामायणम् ।” इति साहित्यदर्पणः ॥ स्वनामख्यातहनूमद्रचित- रामचरितग्रन्थविशेषः । यथा, —
“एष श्रीलहनूमता विरचिते श्रीमन्महानाटके वीरश्रीयुतरामचन्द्रचरिते प्रत्युद्धृते विक्रमैः । मिश्रश्रीमधुसूदनेन कविना सन्दर्भ्य सज्जीकृते स्वर्गारोहणनामकोऽत्र नवमो यातोऽङ्क एवेत्यसौ ॥” इति तस्यान्तिमः श्लोकः ॥