संस्कृत-शब्दकोशः

महानिद्रा महानिशा

महानिम्ब

वाचस्पत्यम्

महानिम्ब ||‍ पु० कर्म० । (घोडानिम) वृक्षभेदे रत्नमा० ।


शब्दकल्पद्रुमः

महानिम्बः || पुं, (महांश्चासौ निम्बश्चेति ।)
निम्ब- वृक्षविशेषः । घोडा निम इति भाषा । तत्- पर्य्यायः । कैटर्य्यः २ पवनेष्टः ३ पार्व्वतः ४ । इति रत्नमाला ॥ (यथा, —
“मृतसूताभ्रनागञ्च स्वर्णं तुल्यं प्रकल्पयेत् । महानिम्बस्य चूर्णतु चतुर्भिः सममाहरेत् । मधुना लेहयेन्माषं लालामेहप्रशान्तये ॥” इति वैद्यकरसेन्द्रसारसंग्रहे प्रमेहाधिकारे ॥)
अस्य गुणाः । परमग्राहित्वम् । कषायत्वम् । अम्लत्वम् । शीतलत्वञ्च । इति राजवल्लभः ॥ (तथास्य पर्य्यायान्तरं गुणाश्च । “महानिम्बः स्मृतोद्रेका रम्यको विषमुष्टिकः । केशामुष्टिनिम्बकश्च कार्म्मुको जीव इत्यपि ॥ महानिम्बो हिमो रूक्षस्तिक्तो ग्राही कषा- यकः । कफपित्तभ्रमच्छर्दिकुष्ठहृल्लासरक्तजित् । प्रमेहश्वासगुल्मार्शो मूषिकाविषनाशनः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: