संस्कृत-शब्दकोशः

महानीला महानुभाव

महानीली

शब्दकल्पद्रुमः

महानीली || स्त्री (नील + “नीलादोषधौ ।” ४ । १ । ४२ । इति वार्त्तिकोक्त्या ङीष् । ततः । महती चासौ नीली चेति ।)
नीलापराजिता । बृहन्नीली । तत्पर्य्यायः । अमरा २ जनि- नीलिका ३ तुत्था ४ श्रीफलिका ५ मेला ६ केशार्हा ७ भर्त्सपत्रिका ८ । अस्या गुणाः । गुणाढ्यत्वम् । रङ्गश्रेष्ठत्वम् । सुवर्णदातृत्वम् । नीलिकामपेक्ष्य सर्व्वकर्म्मसु सगुणत्वम् । इति राजनिर्घण्टः ॥



Correction: