वाचस्पत्यम्
महापिण्डीतक || पु० कर्म० । कृष्णवर्णे विपुलमदनवृक्षे राजनि०
शब्दकल्पद्रुमः
महापिण्डीतकः || पुं, (पिण्डीं तनोतीति । तन् + डः संज्ञार्थे कन् । ततः महांश्चासौ पिण्डीतक- श्चेति । पिण्डाकारफलत्वादस्य तथात्वम् ।)
कृष्णवर्णमहामदनवृक्षः । तत्पर्य्यायः । वाराहः २ । अस्य गुणाः । श्रेष्ठत्वम् । कटुतिक्तरसा- न्वितत्वम् । छर्द्दनत्वम् । कफहृद्रोगपक्वामाशय- शोधनत्वञ्च । इति राजनिर्घण्टः ॥