वाचस्पत्यम्
महापीलु || पु० कर्म० । मधुपीलौ राजनि० अतिमधुरत्वात्तस्य हि महत्त्वम् ।
शब्दकल्पद्रुमः
महापीलुः || पुं, (पीलति प्रतिष्टभते विषपित्तादिक- मिति । पील + “मृगय्वादयश्च ।” उणा० १ । ३८ । इति कुः । ततो महान् पीलुरिति कर्म्मधारयः ।)
पीलुवृक्षविशेषः । तत्पर्य्यायः । बृहत्पीलुः २ महाफलः ३ राजपीलुः ४ महावृक्षः ५ मधुपीलुः ६ । अस्य फलगुणाः । मधुरत्वम् । वृष्यत्वम् । विषनाशित्वम् । पित्तप्रशमनत्वम् । रुच्यत्वम् । आमघ्नत्वम् । दीपनीयकत्वञ्च । इति राजनिर्घण्टः ॥