संस्कृत-शब्दकोशः

महापीलु महापुरुष

महापुराण

वाचस्पत्यम्

महापुराण ||‍ न० न० “सृष्टिश्चापि विसृष्टिश्च स्थितिस्तेषाञ्च पालनम् । कर्मणां वासना वार्त्ता मनूनाञ्च क्रमेण च । वर्णनं प्रलयानाञ्च मोक्षस्य च निरूपणम् । उत्कीर्त्तनं हरेरेव देवानाञ्च पृथक् पृथक् । महापुराणं विज्ञेय- मेकादशकलक्षणम्” ब्रह्मवै० ज० १३२ अ० इत्युक्तलक्षणे व्यासप्रणीते पुराणभेदे ।


शब्दकल्पद्रुमः

महापुराणं || क्ली (महच्च तत् पुराणञ्चेति ।)
एकादशलक्षणयुक्तव्यासप्रणीताष्टादशसंख्यक- पुराणविशेषः । तस्य लक्षणं यथा, —
“सृष्टिश्चापि विसृष्टिश्च स्थितिस्तेषाञ्च पाल- नम् । कर्म्मणां वासना वार्त्ता मनूनाञ्च क्रमेण च ॥ वर्णनं प्रलयानाञ्च मोक्षस्य च निरूपणम् । उत्कीर्त्तनं हरेरेव देवानाञ्च पृथक् पृथक् । दशाधिकं लक्षणञ्च महातां परिकीर्त्तितम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १३२ अध्यायः ॥ (अष्टादशमहापुराणानां विशेषविवरणलक्ष- णादिकं पुराणशब्दे द्रष्टव्यम् ॥)



Correction: