संस्कृत-शब्दकोशः

महापुराण महापुरुषदन्ता

महापुरुष

वाचस्पत्यम्

महापुरुष ||‍ पु० कर्म० । १ श्रेष्ठे नरे २ नारायणे च । “वन्दे महापुरुष! ते चरणारविन्दमि” ति भागवतम् ।


शब्दकल्पद्रुमः

महापुरुषः || पुं, (महांश्चासौ पुरुषश्च ति ।)
श्रेष्ठनरः । (यथा, श्रीमद्भागवते । ६ । १२ । २० । “भवानतार्षीन्मायां वै वेष्णवीं जनमोहिनीम् । यद्विहायासुरं भावं महापुरुषतां गतः ॥”)
नारायणः । यथा, —
“ध्येयं सदा परिभवघ्नमभीष्टदोहं तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् । भृत्यार्त्तिहं प्रणतपालभवाब्धिपोतं वन्दे महापुरुष ! ते चरणारविन्दम् ॥ त्यक्त्वा सुदुस्त्यजसुरेप्सितराज्यलक्ष्मीं धर्म्मिष्ठ आर्य्यवचसा यदगादरण्यम् । मायामृगं दयितयेप्सितमन्वधाव- वन्दे महापुरुष ! ते चरणारविन्दम् ॥” इत्याह्निकतत्त्वधृतश्रीभागवतम् ॥



Correction: