शब्दकल्पद्रुमः
महाप्रभुः || पुं, (महांश्चासौ प्रभुश्चेति ।)
पर- मेश्वरः । यथा, —
“वन्देऽनन्ताद्भुतैश्वर्य्यं श्रीचैतन्यं महाप्रभुम् । नीचोऽपि यत्प्रसादात् स्यात् सदाचारप्रव- र्त्तकः ॥” इति हरिभक्तिविलासे ३ विलासः ॥ “अनन्तमद्भुतञ्चावितर्क्यं ऐश्वर्य्यं प्रभावो यस्य तं यतो महाप्रभुं परमेश्वरम् ।” इति तट्टीकायां जीवगोस्वामी ॥ श्रीचैतन्यः । यथा, —
“सोऽयं नीलगिरीश्वरः सविभवो यात्रा च सा गुण्डिचा ते ते दिग्विदिगागताः सुकृतिनस्तास्ता दिदृक्षार्त्तयः । आरामश्च त एव नन्दनवनश्रीणां तिरस्कारिणः सर्व्वाण्येव महाप्रभुं वत विना शून्यानि मन्या- महे ॥” इति चैतन्यचन्द्रोदयनाटकम् ॥