शब्दकल्पद्रुमः
महाफला || स्त्री (महत् फलं आरोग्यादिकं यस्याः ।)
इन्द्रवारुणी । इति जटाधरः ॥ (अस्याः पर्य्यायो भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे । “ऐन्द्रीन्द्रवारुणी चित्रा गवाक्षी च गवादनी । वारुणी च पराप्युक्ता सा विशाला महाफला ॥ श्वेतपुष्पा मृगाक्षी च मृगैर्वारुमृगादनी ॥” राजजम्बूः । तत्पर्य्यायो यथा, तत्रैव । “फलेन्द्राकथितानन्दो राजजम्बूर्महाफला ॥” कटुतुम्बी । तत्पर्य्यायो यथा, तत्रैव । “इक्ष्वाकुः कटुतुम्बी स्यात् सा तुम्बी च महा- फला ॥” महाकोशातकी । तत्पर्य्यायो यथा, तत्रैव । “महाकोशातकी प्रोक्ता हस्तिघोषा महा- फला । धामार्गवो घोषकश्च हस्तिपर्णश्च स स्मृतः ॥”)