शब्दकल्पद्रुमः
महाभटः || पुं, (महांश्चासौ भटश्चेति ।) अति- शययोद्धा । यथा, — “तदोजसा दैत्यमहाभटार्पितं चकासदन्तः ख उदीर्णदीधिति । चक्रेण चिच्छेद निशातनेमिना हरिर्यथा तार्क्षपतत्त्रमुज्झितम् ॥” इति श्रीभागवते ३ स्कन्धे १९ अध्यायः ॥