संस्कृत-शब्दकोशः

महाभृङ्ग महाभोगा

महाभैरव

शब्दकल्पद्रुमः

महाभैरवः || पुं, (महान् भैरवः ।)
शरभरूपी हरः । यथा, —
“योऽसौ महाभैरवाख्यः सकायः शारभो हरः । भैरवः पृथगेवायं गणाध्यक्षो हरात्मजः ॥” इति कालिकापुराणे ४६ अध्यायः ॥ (स्त्री, विद्याविशेषः । तथा च प्रबोधचन्द्रोदये । ३ । २४ । “तन्महाभैरवीं विद्यां धर्म्मश्रद्धयो- राहरणाय प्रस्थापयामः ॥”)



Correction: