शब्दकल्पद्रुमः
महामहावारुणी || स्त्री (महती चासौ महा- वारुणी चेति ।)
गङ्गास्नानस्य योगविशेषः । स तु शनिवारशतभिषानक्षत्रशुभयोगयुक्त- गौणचान्द्रचैत्रकृष्णत्रयोदशीरूपः । यथा, —
“शुभयोगसमायुक्ता शनौ शतभिषा यदि । महामहेति विख्याता त्रिकोटिकुलमुद्धरेत् ॥” इति तिथ्यादितत्त्वधृतस्कन्दपुराणवचनम् ॥