संस्कृत-शब्दकोशः

महामहावारुणी महामात्री

महामात्र

वाचस्पत्यम्

महामात्र ||‍ पु० “मन्त्रे कर्मणि भूषायाम् वित्ते माने परि- च्छदे मात्रा च महती येषां महामात्रास्तु ते स्मृताः” इत्युक्ते प्रधानामात्ये ।


शब्दकल्पद्रुमः

महामात्रः || पुं, (महती मात्रा मर्य्यादापरिमाणं यस्य ।)
प्रधानः । इत्यमरः । २ । ८ । ५ ॥ सेना- पत्यादिषु महती मात्रा धनं परिच्छदो वा येषां ते तथा । इति तट्टीकायां भरतः ॥ (यथा, रामायणे । २ । ३६ । १८ । “तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः । शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत् ॥” समृद्धः । (यथा, महाभारते । २ । ३१ । ६० । “राज्ञे भोजकटस्थाय महामात्राय धीमते ॥”)
अमात्यः । (यथा, कामन्दकीये । ९ । ६९ । “दूषिते हि महामात्रे रिपुरुग्रोऽपि धीमता । स्वपक्षे यस्य विश्वास इत्थंभूतश्च निष्क्रियः ॥”)
हस्तिपकाधिपः । इति मेदिनी । रे, १९० । (यथा च कथासरित्सागरे । १३ । १० । “इहत्यश्च महामात्रो द्बिरदेङ्गितवित्तदा । मद्येन क्षीबतां नेयो नैतञ्चेतयते यथा ॥” महादेवः । यथा, महाभारते । १३ । १७ । ८५ । “महामूर्द्धा महामात्रो महानेत्रो निशा- लयः ॥”)



Correction: