वाचस्पत्यम्
महामाया || स्त्री कर्म० । अन्यस्मिन् अन्यधर्मावभासो हि माया सर्वजगन्मूलत्वात्तस्या महत्त्वम् । १ जगत्कारणभूतायाम् अविद्यायां २ तदधिष्ठात्र्यां दुर्गायाञ्च “महामाया हरे- श्चैषा यया संमोह्यते जगत्” देवोमा० ।
शब्दकल्पद्रुमः
महामाया || स्त्री (अघटनघटनापटीयस्त्वेन विस- दृशप्रतीतिसाधनं माया । महती चासौ माया चेति । यद्वा, महती माया विश्वनिर्म्माणशक्ति- र्यस्याः सा ।)
दुर्गा । इति शब्दरत्नावली ॥ तस्याः स्वरूपं यथा, —
“गर्भान्तर्ज्ञानसम्पन्नं प्रेरितं सूतिमारुतैः । उत्पन्नं ज्ञानरहितं कुरुते या निरन्तरम् ॥ पूर्ब्बातिपूर्ब्बसंबद्धसंस्कारेण नियोज्य च । आहारादौ ततो मोहं ममत्वं ज्ञानसंशयम् ॥ क्रोधोपरोधलोभेषु क्षिप्त्वा क्षिप्त्वा पुनः पुनः । पश्चात् कामे नियोज्याशु चिन्तायुक्तमह- र्न्निशम् ॥ आमोदयुक्तं व्यसनासक्तं जन्तुं करोति या । महामायेति सा प्रोक्ता तेन सा जगदीश्वरी ॥” इति कालिकापुराणे ६ अध्यायः ॥ (यथा च देवीभागते । १ । ९ । ४० । “नमो देवि ! महामाये ! सृष्टिसंहार- कारिणि ! ॥” गङ्गादेवी । यथा, काशीखण्डे । २९ । १३९ । “महाविद्या महामाया महामेधा महौ- षधम् ॥”)
महती माया च ॥ (यथा, मार्कण्डेये । ८१ । ४१ । “महामाया हरेश्चैतत् तया संमोह्यते जगत् ॥”)