संस्कृत-शब्दकोशः

महामायी महामाष

महामारी

शब्दकल्पद्रुमः

महामारी || स्त्री (महतः दुर्द्दान्तान् दानवादीन् मारयति इति । मृङ् + णिच् + अण् । ङीप् ।)
महाकाली । यथा, —
“व्याप्तं तयैतत् सकलं ब्रह्माण्डं मनुजेश्वर ! । महाकाल्या महाकाले महामारीस्वरूपया ॥ सैव काले महामारी सैव सृष्टिर्भवत्यजा । स्थितिं करोति भूतानां सैव काले सनातनी ॥” इति मार्कण्डेयपुराणम् ॥ (म्रियन्त प्राणिनो यस्या इति । मृङ् + घञ् । ङीष् । महती मारी ।)
अतिशयमरकश्च ॥



Correction: