शब्दकल्पद्रुमः
महामृत्युञ्जयः || पुं, (महामृत्युं यमं जयतीति । जि + खच् मुम् च ।)
शिवस्य मन्त्रविशेषः । यथा, — देव्युवाच । “यदि मे महती प्रीतिस्तवास्ति कुलभैरव ! । कथयस्व विशेषेण महामृत्युञ्जयाभिधम् ॥ भैरव उवाच । शृणु देवि ! प्रवक्ष्यामि महामृत्युञ्जयाभिधम् । आयुर्वृद्धिकरं पुंसां मृत्योर्मृत्युकरं परम् ॥ यस्य विज्ञानमात्रेण चिरजीवी निरामयः । नित्यमष्टशतं जप्त्वा मृत्युं मृत्युपथं नयेत् ॥” इति मृत्युञ्जयतन्त्रम् ॥