शब्दकल्पद्रुमः
महामेदा || स्त्री (मेदयतीति । मिद + णिच् + घञ् । टाप् । महती मेदा ।)
अष्टवर्गे प्रसिद्धौ- षधविशेषः ॥ तत्पर्य्यायः । वसुच्छिद्रा २ जीवनी ३ पांशुरागिणी ४ देवेष्टा ५ सुरामेदा ६ दिव्या ७ देवमणिः ८ देवगन्धा ९ महाच्छिद्रा १० वृक्षार्हा ११ । अस्याः गुणाः । हिमत्वम् । रुच्यत्वम् । कफशुक्रवृद्धिकारित्वम् । दाहास्र- पित्तक्षयवातज्वरनाशित्वञ्च । इति राज- निर्घण्टः ॥ * ॥
अथ मेदमहामेदयोरुत्पत्ति- लक्षणनामगुणाः । “महामेदाभिधः कन्दो मोरङ्गादौ प्रजायते । महामेदा वनौमेदा स्यादित्युक्तं मुनीश्वरैः ॥ शुक्लार्द्रकनिभः कन्दो लताजातः स पाण्डुरः । महामेदाभिधो ज्ञेयो मेदालक्षणमुच्यते ॥ शुक्लकन्दो नखच्छेद्यो मेदो धातुरिव स्रवेत् । यः स मेदेति विज्ञेया जिज्ञासातत्परैर्जनैः ॥ स्वल्पपर्णी मणिच्छिद्रा मेदा मेदोभवाध्वरा । महामेदा वसुच्छिद्रा त्रिदन्ती देवतामणिः ॥ मेदायुगं गुरु स्वादु वृष्यं स्तन्यकफापहम् । बृंहणं शीतलं पित्तरक्तवातज्वरप्रणुत् ॥” इति भावप्रकाशः ॥