वाचस्पत्यम्
महायज्ञ || पु० कर्म० । नित्यं गृहस्थकर्त्तव्ये वेदाध्ययनाग्नि- होत्रपितृतर्पणभूतबलिकर्मातिथिपूजनरूपेषु पञ्चसु कर्मसु ।
शब्दकल्पद्रुमः
महायज्ञः || पुं, (महान् यज्ञः ।)
वेदपाठादि- रूपपञ्चप्रकारयज्ञः । यथा, —
“पाठो होमश्चातिथीनां सपर्य्या तर्पणं बलिः । एतैः पञ्च महायज्ञा ब्रह्मयज्ञादिनामकैः ॥” इत्यमरः । २ । ७ । १४ ॥ अपि च । “दिव्यो भौमस्तथा पैत्रो मानुषो ब्राह्म एव च । एतैः पश्च महायज्ञा ब्रह्मणा निर्म्मिताः पुरा ॥ ब्राह्मणानां हितार्थाय इतरेषाञ्च तन्मुखाः । इतरेषान्तु वर्णानां ब्राह्मणैः कारिताः शुभाः ॥ एवं कृत्वा नरो भुक्त्वास्माद्धरित्रि ! विशुध्यति । अन्यथा ब्रीहयोऽप्येते एकैके मृगपक्षिणः ॥ मन्तव्या दातृभोक्तॄणां महामांसन्तु तत् स्मृतम् ॥” इति वराहपुराणम् ॥ (यथा च मनौ । २ । ३८ । महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥”)